Loading data... On slow networks this could take a few minutes.
100%

कुपितेषु राजषु तथापि
रथचरणपाणिपूजया ।
चित्तकलितकलहागमनो
मुदमाहुकिः सुहृदिवाधिकां दधौ ॥

मल्लिनाथः कुपितेष्विति ॥ रथचरणपाणेश्चक्रपाणेः पूजया राजसु तथा कुपितेष्वपि चित्ते कलितं निश्चितं कलहागमनं युद्धलाभो येन स आहुकिः आहुकिर्नाम राजा शोभनं हृदयं यस्य स सुहृन्मित्रमिव । कृष्णपक्षपातीवेत्यर्थः । `सुहृदुर्हृदौ मित्रामित्रयोः` (अष्टाध्यायी ५.४.१५० ) इति निपातः । अधिकां मुदं दधौ संतोषं धृतवान् । सुदुःसहोऽपि कृष्णोत्कर्षः कलहकण्डूलबाहोराहुकेः मोदहेतुरासीदित्यर्थः । उपमालंकारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
कु पि ते षु रा षु था पि
पा णि पू या
चि त्त लि हा नो
मु मा हु किः सु हृ दि वा धि कां धौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.