Loading data... On slow networks this could take a few minutes.
100%

चरणेन हन्ति सुबलः स्म
शिथिलितमहीध्रबन्धनाम् ।
तीरतरलजलराशिजला-
मवभुग्नभोगिफणमण्डलां भुवम् ॥

मल्लिनाथः चरणेनेति ॥ सुबलो नाम राजा महीं धारयन्तीति महीध्राः पर्वताः । `कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्` (वा०) इति कप्रत्ययः । शिथिलितानि विश्लेषितानि महीध्राणां बन्धनानि संधयो यस्यास्ताम् । तीरेण तरलानि भूकम्पाच्चलितानि जलराशेरम्बुधेलानि यस्यास्ताम् । अवभुग्नं कुटिलम् । अतिभारादित्यर्थः । भोगिनां फणिनां फणमण्डलं फणासमूहो यस्यास्तां भुवं चरणेन हन्ति स्म जघान । `लट् स्मे` (अष्टाध्यायी ३.२.११८ ) इति भूतार्थे लट् । अत्र पादाघाताद्भुवः कम्पासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
णे न्ति सु लः स्म
शि थि लि ही ध्र न्ध नाम्
ती रा शि ला
भु ग्न भो गि ण्ड लां भु वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.