प्रतिघः कुतोऽपि समुपेत्य
नरपतिगणं समाश्रयत् ।
जामिहरणजनितानुशयः
समुदाचचार निज एव रुक्मिणः ॥

मल्लिनाथः प्रतिघ इति ॥ प्रतिघः कोपः । `कोपक्रोधामर्षरोषप्रतिघा-` इत्यमरः । कुतोऽपि समुपेत्यागत्य नरपतिगणं राजमण्डलं समाश्रयत्समाविशत् । रुक्मिणस्तु जामिः स्वसा । `जामिः स्वसूकुलस्त्रियोः` इत्यमरः । तस्या रुक्मिण्या हरणेन जनितोऽनुशयो `हा कष्टमापन्नं ! कदा निर्यातयामि` इत्यनुतापो यस्मिन्सः । `अथानुशयो दीर्घद्वेषानुतापयोः` इत्यमरः । निजो नित्य एव प्रतिघः । `निजमात्मीयनित्ययोः` इति विश्वः । समुदाचचार समुद्दिदीपे । भीष्मवाक्यमन्येषां कोपोत्पादकमासीत्, रुक्मिणस्तु प्रागेवावरूढकोपस्योद्दीपकमासीदित्यर्थः । अत्रानुशयस्य विशेषणगत्या कोपोद्दीपनहेतुत्वात्काव्यलिङ्गभेदः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र ति घः कु तो ऽपि मु पे त्य
ति णं मा श्र यत्
जा मि नि ता नु यः
मु दा चा नि रु क्मि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.