कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् । क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥

मल्लिनाथः कुपितेति ॥ प्रथमं प्रागेव । अकुपितावस्थायामपीत्यर्थः ।कुपितस्येवाकृतिर्मुखरागो यस्येत्युपमा । अरिचक्रभीषणं परबलभयंकरं दन्तवर्क दन्तवकनामानं राजानम् । अशनिदलितस्य वज्रहतस्याद्रितटस्य ध्वनिरिव ध्वनिर्यस्य तदित्युपमा । न शनैः अशनैः । उच्चैर्हसितमट्टहासः । स क्रुद्धमसूचयत् । सर्वदा मुखरागस्य विशेषणादनुभावान्तरवेद्यः । क्रुद्ध इत्यर्थः । अत्र कोपव्यञ्जकसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरुपमासंकीर्णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.