Loading data... On slow networks this could take a few minutes.
100%

स निकामघर्मितमभीक्ष्ण-
मधुवदवधूतराजकः ।
क्षिप्तबहुलजलबिन्दु वपुः
प्रलयार्णवोत्थित इवादिशूकरः ॥

मल्लिनाथः स इति ॥ राज्ञां समूहो राजकम् । `गोत्रोक्ष-` (अष्टाध्यायी ४.२.३९ ) इत्यादिना वुञ्प्रत्ययः । तदवधूतमभिभूतं येन स तथोक्तः स चैद्यो निकामं घर्मितं संजातधर्मम्| उद्भवत्स्वेदमित्यर्थः । `धर्मः स्यादातपे ग्रीष्म उष्णस्वेदाम्भसोरपि` इति विश्वः । तारकादित्वादितच्प्रत्ययः । वपुः प्रलये अर्णवस्तस्मादुत्थितः । आदिशूकर इव क्षिप्ताः प्रेरिता बहुलाः सान्द्रा जलबिन्दवो यस्मिन्कर्मणि तद्यथा तथा अभीक्ष्णमधुवत्क्रोधाद्धुवति स्म । `धूञ् विधूनने` इति धातोस्तौदादिकाल्लङ् । अत्रापि स्वेदः सात्विक एवोक्तः । उपमालङ्कारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
नि का र्मि भी क्ष्ण
धु धू रा कः
क्षि प्त हु बि न्दु पुः
प्र या र्ण वो त्थि वा दि शू रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.