स वमन्रुषाश्रु घनघर्म-
विगलदुरुगण्डमण्डलः ।
स्वेदजलकणकरालकरो
व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥

मल्लिनाथः स इति ॥ रुषा रोषेणाश्रु वमन्मुञ्चन् । घनेन सान्द्रेण घर्मेण क्रोधोष्मणा विगलत्स्रवदुरु महत् गण्डमण्डलं यस्य सः । स्विद्यत्कपोल इत्यर्थः । स्वेदजलकणैः स्वेदबिन्दुभिः करालकरो दन्तुरहस्तः स चैद्यः त्रिधा नेत्रकपोलहस्तदेशैः प्रभिन्नो मदस्रावी मत्तः । `प्रभिन्नो मत्तः स्यात्` इति वैजयन्ती । कुञ्जर इव व्यरुचत् । रुचेः `दयुद्भ्यो लुङि` (१|३।९१) इति विकल्पात्परस्मैपदम् । एतेन स्वेदाख्यः सात्विकभाव उक्तः । उपमालङ्कारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
न्रु षा श्रु र्म
वि दु रु ण्ड ण्ड लः
स्वे रा रो
व्य रु त्प्र भि न्न कु ञ्ज स्त्रि धा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.