Loading data... On slow networks this could take a few minutes.
100%

क्षणमाश्लिषद्द्घटितशैल-
शिखरकठिनांसमण्डनः ।
स्तम्भमुपहितविधूतिमसा-
वधिकावधूनितसमस्तसंसदम् ॥

मल्लिनाथः क्षणमिति ॥ घटितं सुसंहितं यच्छैलशिखरं तद्वत्कठिनमंसमण्डलं यस्य सः असौ चैद्यः उपहितावगाहिता । आरोपितेत्यर्थः । विधूतिः कम्पो यस्मिंस्तम् । अधिकमत्यन्तमवधूनिता कम्पिता समस्ता सकला संसत् सभा येन तं स्तम्भं क्षणं आश्लिषत् श्लिष्टवान् । तेनांसमण्डलेनाहतवानित्यर्थः । अत एव कठिनांसमण्डल इति विशेषणं च । पुषादित्वाच्च्लेरङादेशः । आलिङ्गनार्थत्वे तु `श्लिष आलिङ्गने` [ ञित्त्वस्य पदद्वयार्थ कृतत्वेनाज्ञापकत्वादिदमसंगतम् । तस्मात् विचक्षण इत्यत्र युजर्थमावश्यकेनानुदात्तेत्वेनात्मनेपदे सिद्धे ङित्करणसामर्थ्यात् `अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्` इत्यस्य सिद्धिर्वक्तव्या`.]&#३२; इति वसादेशः स्यात् । क्रोधान्धाः किमु न कुर्वन्तीति भावः । अत्रांसकाठिन्यस्य विशेषणगत्या स्तम्भाश्लेषहेतुत्वात्काव्यलिङ्गं शैलशिखरोपमया संकीर्यते
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
क्ष मा श्लि द्द्घ टि शै
शि ठि नां ण्ड नः
स्त म्भ मु हि वि धू ति सा
धि का धू नि स्त सं दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.