Loading data... On slow networks this could take a few minutes.
100%

इतिभीष्मभाषितवचोर्ऽथ-
मधिगतवतामिव क्षणात् ।
क्षोभमगमदतिमात्रमथो
शिशुपालपक्षपृथिवीभृतां गणः ॥

मल्लिनाथः इतीति ॥ इतीत्थं भीष्मेण भाषितस्योक्तस्य वचसोऽर्थमभिधेयं शिरसि पादन्यासरूपं क्षणादधिगतवताम् । प्राप्तवतामिव सतामित्यर्थः । शिशुपालस्य पक्षा ये पृथिवीभृतो राजानस्तेषामसौ गणोऽतिमानं क्षोभं क्रोधं विकारमगमत् । एतेनैषामात्मविनाशावसायी रौद्रस्थायी क्रोधः प्रादुरभूदित्युक्तम् । उत्प्रेक्षा
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
ति भी ष्म भा षि चो र्ऽथ
धि ता मि क्ष णात्
क्षो ति मा त्र थो
शि शु पा क्ष पृ थि वी भृ तां णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.