Loading data... On slow networks this could take a few minutes.
100%

विहितं मयाद्य सदसीद-
मपमृषितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं
चरणः कृतः शिरसि सर्वभूभृताम् ॥

मल्लिनाथः विहितमिति ॥ मया अद्य सदसि सभायां विहितं कृतं इदमच्युतार्चनं यस्यापमृषितमतितिक्षितम् । असोढमित्यर्थः । `मृष तितिक्षायाम्` इति धातोः कर्मणि क्तः । उपसर्गवशाद्विपरीतार्थता । अत एव मृषस्तितिक्षायामेव कित्त्वनिषेधादतितिक्षार्थत्वान्न गुणः । `मतिबुद्धिपूजार्थेभ्यश्च` (अष्टाध्यायी ३.२.१८८ ) इति चकाराद्वर्तमानार्थता । `क्तस्य च वर्तमाने` (अष्टाध्यायी २.३.६७ ) इति षष्ठी । सोऽपम्रष्टा पुरुषश्चापं नमयतु आरोपयतु । सर्वभूभृतां मिषतामिति भावः । शिरस्ययं चरणः कृतो न्यस्तः । अयमिति भूमौ पात्यमानस्य चरणस्य हस्तेन निर्देशः । अयं कोपामर्ष इत्यनुसंधेयम्
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
वि हि तं या द्य सी
मृ षि च्यु ता र्च नम्
स्य तु चा यं
णः कृ तः शि सि र्व भू भृ ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.