Loading data... On slow networks this could take a few minutes.
100%

शितितारकानुमितताम्र-
नयनमरुणीकृतं क्रुधा ।
बाणवदनमुददीपि भिये
जगतः सकीलमिव सूर्यमण्डलम् ॥

मल्लिनाथः शितीत्यादि ॥ क्रुधा क्रोधेन अरुणीकृतमत एव शिती श्यामे ये तारके&#३२; कनीनिके ताभ्यामनुमितेऽनुमापिते ताम्रे नयने यस्य तत् । `तारकाक्ष्णः कनीनिका` इत्यमरः । सर्वमुखस्य रक्तत्वादिति भावः । बाणो नृपस्तस्य वदनं सकीलं कीलाकारच्छायासहितम् । परिधियुक्तमिति यावत् । सूर्यमण्डलमिव जगतो भिये भयाय उददीपि प्रजज्वाल । दीप्यतेः कर्तरि लुङि `दीपजन-` (अष्टाध्यायी ३.१.६१ ) इत्यादिना चिण्प्रत्यये तलुक् । अत्र नयनयोः स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणः । तत्सापेक्षत्वादौत्पातिकसूर्यमण्डलोपमासंकरः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
शि ति ता का नु मि ता म्र
रु णी कृ तं क्रु धा
बा मु दी पि भि ये
तः की मि सू र्य ण्ड लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.