स्मृतिवर्त्म तस्य न समस्त-
मपकृतमियाय विद्विषः ।
स्मर्तुमधिगतगुणस्मरणाः
पटवो न दोषमखिलं खलूत्तमाः ॥

मल्लिनाथः स्मृतीति ॥ विद्विषश्चैद्यस्य संबन्धि समस्तमपकृतमपकारजातम् । नपुंसके भावे क्तः । तस्य हरेः कृष्णस्य स्मृतिपथं नेयाय न प्राप । न तमपकारं सस्मारेत्यर्थः । अर्थान्तरं न्यस्यति-अधिगतगुणस्मरणाः परिचितोपकारस्मृतय उत्तमाः सजना अखिलं दोषमपकारं स्मर्तुं न पटवः खलु । नालं भवन्तीत्यर्थः । `पर्याप्तिवचनेष्वलमर्थेषु` (अष्टाध्यायी ३.४.६६ ) इति तुमुन्प्रत्ययः । उपकारमेव स्मरन्ति साधवो नापकारमित्यर्थः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
स्मृ ति र्त्म स्य स्त
कृ मि या वि द्वि षः
स्म र्तु धि गु स्म णाः
वो दो खि लं लू त्त माः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.