मल्लिनाथः
नृपताविति ॥ अथ नृपतौ चेदिपे शौरिं हरिमधिक्षिपति सति सुरसरि&#३२; त्सुतो भीष्मः मरुति प्रलयमारते भुवं चलयति कम्पयति सति क्षुभितस्योद्वेलस्याम्बुधेर्नादमनुकुर्वत्तद्वद्गभीरं वच आह स्म उवाच । `लट् से` (अष्टाध्यायी ३.२.११८ ) इति भूतार्थे लट् । `बुवः पञ्चानामादित आहो बुवः` (अष्टाध्यायी ३.४.८४ ) इति णल्याहादेशः । यद्यपि `न पादादौ खल्वादयः` इत्याह वामनः तथापि कविप्रौढ्या स्मशब्दस्य पादादौ प्रयोगः । उपमालंकारः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.