Loading data... On slow networks this could take a few minutes.
100%

विहितागसो मुहुरसङ्घ्य-
निजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं
मनसा समाख्यदपराधमच्युतः ॥

मल्लिनाथः विहितेति ॥ अलङ्घयेन निजवचनदाम्ना स्वप्रतिज्ञापाशेन संयतो बद्धोऽच्युतः मुहुर्विहितागसः पूर्वं सहस्रशः कृतापराधस्यापि तस्य चैद्यस्यापराधं स एव प्रथमो यस्मिन्कर्मणि तत्प्रथमं यथा तथा कतिथः । कतीनां पूरण इति `तस्य पूरणे डट्` (अष्टाध्यायी ५.२.४८ ) इति डट्प्रत्ययः । `षट्कतिकतिपयचतुरां थुक्` (अष्टाध्यायी ५.२.५१ ) इति थुगागमः । मनसा समाख्यत् गणनां चकार । `अस्यतिवक्तिख्यातिभ्योऽङ्` (अष्टाध्यायी ३.१.५२ ) इति च्लेरङादेशः । अत्र प्रतिज्ञापाशबन्धनस्य विशेषणगत्या प्राचीनापराधानन्त्येऽपि तात्कालिकापराधगणनाहेतुत्वात् काव्यलिङ्गभेदः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
वि हि ता सो मु हु ङ्घ्य
नि दा सं तः
स्य ति ति त्प्र मं
सा मा ख्य रा च्यु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.