अभितर्जयन्निव समस्त-
नृपगणमसावकम्पयत् ।
लोलमुकुटमणिरश्मि शनै-
रशनैः प्रकम्पितजगत्त्रयं शिरः ॥

मल्लिनाथः अभीत्यादि ॥ असौ चैद्यः । समस्तनृपगणमभितर्जयन्निवेत्युत्प्रेक्षा । `तर्ज&#३२; भर्त्सने` चौरादिकस्यानुदात्तत्वेन प्राप्तस्य आत्मनेपदस्य चक्षिङादेशस्य ख्याञ: स्थानिवद्भावानादरेण पुनर्ञित्करणसामर्थ्यादनित्यत्वज्ञापनात्परस्मैपदम् । अत एव तर्जयतीत्यपि दृश्यते कविष्विति भट्टमल्लः । अशनैरतिमात्रं प्रकम्पितं जगत्रयं येन तत् त्रैलोक्यभीषणं शिरः शनैर्लोलाश्चपला मुकुटमणिरश्मयो यस्मिन्कर्मणि तद्यथा तथा अकम्पयत् । क्रोधातिरेकादिति भावः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
भि र्ज न्नि स्त
नृ सा म्प यत्
लो मु कु णि श्मि नै
नैः प्र म्पि त्त्र यं शि रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.