इतिवाचमुद्धतमुदीर्य
सपदि सह वेणुदारिणा ।
सोढरिपुबलभरोऽसहनः
स जहास दत्तकरतालमुच्चकैः ॥

मल्लिनाथः इतीति ॥ सोढः क्षान्तो रिपूणां बलभरो वीर्यातिशयो येन सः न सहत इत्यसहनः असहिष्णुः स चैद्य इतीत्थमुद्धतं निष्ठुरं यथा तथा वाचमुदीर्य सपदि वेणुदारिणा नरकात्मजेन सह दत्तः करतालः परस्परपाणिताडनं यस्मिन्कर्मणि तद्यथा तथा उच्चकैस्तारं जहास । कृष्णदोषोद्घाटनहर्षादट्टहासं चकारेत्यर्थः । स्वभावोक्तिः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
ति वा मु द्ध मु दी र्य
दि वे णु दा रि णा
सो रि पु रो ऽस नः
हा त्त ता मु च्च कैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.