Loading data... On slow networks this could take a few minutes.
100%

कटुनापि चैद्यवचनेन
विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा
सुजनं जनाश्चलयितुं क ईशते ॥

मल्लिनाथः &#३२; कटुनेति ॥ माधवः । कटुनापि चैद्यवचनेन विकृतिं नागमत् । गमेर्लुङि "पुषादि-` (अष्टाध्यायी ३.१.५५ ) इति च्लेरङादेशः । तथा हि—सत्ये नियतवचसमस्खलितवचसं सत्यसंधं सुजनं के जनाः वचसा । तीव्रणापीति भावः । चलयितुमीशते शक्नुवन्ति । न केऽपीत्यर्थः । `सहिष्ये शतमागांसि` (२।१०८) इति प्रतिज्ञाभङ्गभयादसहतेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
टु ना पि चै द्य ने
वि कृ ति न्न मा वः
त्य नि सं सा
सु नं ना श्च यि तुं ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.