अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् । स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥

मल्लिनाथः अयमिति ॥ अपरोऽन्यः ना पशुरिवेति नृपशुरित्युपमितसमासः ।कार्याकार्यविवेकशून्यत्वादेवेत्यर्थः । अयं कृष्णः उग्रसेनतनयस्य कंसस्य पशूनवन् गाः पालयन् पुरुषैरसुकरं लोकवेदविगीतत्वाद्दुष्करं स्वामिवधं यत्कुरुते स्म । चकारेति यावत् । एतत्परममद्भुतम् । अभूतपूर्ववदिति भावः । अत्र पश्ववनस्य विशेषण गत्या कंसकृष्णयोः स्वामिभृत्यभावहेतुत्वाकाव्यलिङ्गम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.