शकटव्युदासतरुभङ्ग-
धरणिधरधारणादिकम् ।
कर्म यदयमकरोत्तरलः
स्थिरचेतसां क इव तेन विस्मयः ॥

मल्लिनाथः शकटेति ॥ तरलश्चपलोऽयं कृष्णः शकटव्युदासः शकटासुरमर्दनं तरुभङ्गो यमलार्जुनभञ्जनं धरणिधरधारणं गोवर्धनोद्धरणम् , तानि आदिर्यस्य तत्तथोक्तं यत्कर्माकरोत्तेन कर्मणा स्थिरचेतसां धीरचित्तानां क इव विस्मयः । न कोऽपीत्यर्थः । अत्र स्थिरचेतस्कताया विशेषणगत्या विस्मयनिषेधहेतुत्वात्काव्यलिङ्गं वृत्त्यनुप्रासेन संसृज्यते
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
व्यु दा रु ङ्ग
णि धा णा दि कम्
र्म रो त्त लः
स्थि चे सां ते वि स्म यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.