मल्लिनाथः
दीयति ॥ अस्य कृष्णस्य मतिः पूतना नाम बालग्रहविशेषः, तां प्रति अङ्गनेति हेतोर्मृदुः कृपा दया नाजनि यदि न जाता चेत् मास्त्विति शेषः । जनेः कर्तरि लुङ् `दीपजन-` (अष्टाध्यायी ३.१.६१ ) इत्यादिना चिण्प्रत्ययः । अघृणमनसो निर्घृणचित्तस्य । स्तने भवं स्तन्यं पयः । `शरीरावयवाद्यत्` (अष्टाध्यायी ५.१.६ ) इति यत्प्रत्ययः । पिबतोऽस्य सा पूतना धर्मतः शास्त्रतो जनन्यपि माता च भवति खलु । स्त्रीति कृपाभावेऽपि मातेति जुगुप्साप्यस्य नास्तीत्यहो न केवलं स्त्रीहन्ता, किंतु मातृहन्ता चायम् । स्तनप्रदाया उपमातृत्वादिति भावः । अत्र स्तनपानस्य विशेषणगत्या जननीत्वहेतुत्वात्काव्यलिङ्गम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.