मल्लिनाथः
अवधीदिति ॥ हतवृषो हतसुकृतः। `सुकृतं वृषभे वृषे` इति विश्वः । एष कृष्णो जनंगमश्चाण्डाल इव । `चाण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः` इत्यमरः । `गमश्च` (अष्टाध्यायी ३.२.४७ ) इति संज्ञायां जनपूर्वाद्गमधातोः खच्प्रत्ययः "अरुर्द्विषत्-` (अष्टाध्यायी ६.३.६७ ) इत्यादिना मुमागमः । वृषं वृषभरूपिणमरिष्टाख्यमसुरमवधीद्यदि हतवांश्चेत् । `लुङि च` (अष्टाध्यायी २.४.४३ ) इति हनो वधादेशः । अत एव अशुचिवपुरशुद्धामा स्पर्श नार्हति । नृपोचितां राजाही प्रतिमाननां पूजां तु नितरां नार्हति । स्पर्शायोग्यो गोघ्नः कथं पूज्य इत्यर्थः । उपमा
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.