मृगविद्विषामिव यदित्थ-
मजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः
परिभाव एव भवतां भुवोऽधिपाः ॥

मल्लिनाथः मृगेति ॥ हे भुवोऽधिपा राजानः, मृगविद्विषां सिंहानामिव भवतां मिषतां पश्यतां भवत्सु मिषत्सु । मिषतो युष्माननादृत्येत्यर्थः । `षष्टी चानादरे` (अष्टाध्यायी २.३.३८ ) इति विकल्पाद्भावलक्षणे षष्ठी । इत्थं पृथासुतैः कौन्तेयैः । पितरमेतेषां न चेद्मीति भावः । अस्य कृष्णस्य वनशुनो वनशुनकस्येव । जम्बुकस्येवेति यावत् । अपचितिः पूजा अजनि जनिता । कृतेति यत् । जनेर्ण्यन्तात्कर्मणि लुङ् । एष भवतां परिभावः परिभवः । `परौ भुवोऽवज्ञाने` (अष्टाध्यायी ३.३.५५ ) इति विभाषया घञ्प्रत्ययः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
मृ वि द्वि षा मि दि त्थ
नि मि तां पृ था सु तैः
स्य शु वा चि तिः
रि भा तां भु वो ऽधि पाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.