Loading data... On slow networks this could take a few minutes.
100%

त्वयि पूजनं जगति जाल्म
कृतमिदमपाकृते गुणैः ।
हासकरमघटते नितरां
शिरसीव कङ्कतमपेतमूर्धजे ॥

मल्लिनाथः त्वयीति ॥ हे जाल्म असमीक्ष्यकारिन् , `जाल्मोऽसमीक्ष्यकारी स्यात्` इत्यमरः । गुणैरपाकृते निरस्त गुणैहीने त्वयि पूजनं कृतं जगति हासकरं परिहासजनकं इदं पूजनम् । अपेतमूर्धजेऽपगतकेशे शिरसि कङ्कतं दारुदन्तादिमयः केशप्रसाधनविशेषः । `प्रसाधने कङ्कतिका` इति विश्वामरौ । कङ्कतमेव कङ्कतिका । `कंकणम्` इति पाठे शेखरमित्यर्थः। `कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि` इति विश्वः । तदिव नितरामघटते । न संगच्छत इत्यर्थः । `नजो नलोपस्तिङि क्षेपे` (वा०) इत्युपसंख्यानमिति निन्दायां तिङ्योगेऽपि नलोपः। उपमालंकारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
त्व यि पू नं ति जा ल्म
कृ मि पा कृ ते गु णैः
हा ते नि रां
शि सी ङ्क पे मू र्ध जे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.