Loading data... On slow networks this could take a few minutes.
100%

तव धन्यतेयमपि सर्व-
नृपतितुलितोऽपि यत्क्षणम् ।
क्लान्तकरतलधृताचलकः
पृथिवीतले तुलितभूभृदुच्यसे ॥

मल्लिनाथः तवेति ॥ तवेयं धन्यता पुण्यवत्ता कथं सर्वैर्नृपतिभिस्तुलितोऽवधूतोऽपि । तिरस्कृतोऽपीत्यर्थः । क्षणं क्लान्ते भारवत्तयैव श्रान्ते करतले धृतः अचलकोऽल्पाचलो येन स सन् पृथिवीतले तुलितभूभृदुद्धृतराजकश्चोच्यस इति यत् इयमप्यपरा ते धन्यतेत्यर्थः । गोवर्धनाख्यक्षुद्रभूधरतोलनात्तुलितभूभृत्त्वं भवति न मादृशामिव महावीरातितुलनादिति भावः । अत्र सर्वनृपतितुलितोऽपि तत्तोलक इति विरोधो भूभृदिति श्लेषमूलाभेदाध्यवसायोत्थापित इति विरोधातिशयोक्त्योः संकरः । तेन गोवर्धनोद्धरणमपि नातीवाद्भुतं बाहुबलशालिनामिति वस्तु व्यज्यते
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
न्य ते पि र्व
नृ ति तु लि तो ऽपि त्क्ष णम्
क्ला न्त धृ ता कः
पृ थि वी ले तु लि भू भृ दु च्य से
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.