त्वमशक्नुवन्न शुभकर्मनिरतः परिपाकदारुणम् । जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः ॥

मल्लिनाथः त्वमिति ॥ हे अशुभकर्मनिरत पापाचारपर, अत एवाकुशलमतिर्दुर्बुद्धिस्त्वं परिपाके फलकाले दारुणम् । विचित्रपापयातनामयत्वाद्भयंकरमित्यर्थः । नरकं निरयम् । `स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्` इत्यमरः । जेतुमशक्नु&#३२; वन् । पापिष्टैर्दुर्जयत्वादिति भावः । अधिलोकं लोके । विभत्त्यर्थेऽव्ययीभावः । यशसे नरकविजयीति प्रसिद्धये भुवः सुतं नरकाख्यमजयो जितवानसि । परलोकप्रातारणमात्रपरो न परलोकबाध्योऽसीति भावः । अत्र निरयापराख्यनरकविजयाशक्तेर्विशेषणगत्या तज्जयस्यार्थिनो हरेर्नरकासुरविजयप्रकृतिहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च नरकयोः श्लेष्ममूलाभेदात्तदुत्थापितमिति संकरः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.