पुर एव शार्ङ्गिणि सवैर-
मथ पुनरमुं तदर्चया ।
मन्युरभजदवगाढतरः
समदोषकाल इव देहिनं ज्वरः ॥

मल्लिनाथः पुर इति ॥ पुरः पूर्वमेव शार्ङ्गिणि सवैरं सक्रोधममुं चैद्यं अथ पुनः अतः परं तदर्चया हरिपूजया अवगाढतरो निबिडतरो मन्युः क्रोधः । रौद्ररसस्य स्थायीभाव इति भावः । देहिनं शरीरिणं समौ मिलितौ दोषो अपथ्यसेवा काल: कर्मविपाकश्च यस्य स ज्वर इवाभजत् । उपमालंकारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
पु शा र्ङ्गि णि वै
पु मुं र्च या
न्यु गा रः
दो का दे हि नं ज्व रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.