Loading data... On slow networks this could take a few minutes.
100%

छलयन्प्रजास्त्वमनृतेन
कपटपटुरैन्द्रजालिकः ।
प्रीतिमनुभवसि नग्नजितः
सुतयेष्टसत्य इति सम्प्रतीयसे ॥

मल्लिनाथः छलयन्निति ॥ इन्द्रजालं वेत्तीत्यैन्द्रजालिकः । अत एव कपटपटुर्वञ्चनाकुशलस्त्वमनृतेनासत्येन प्रजाश्छलयन्वञ्चयन् इष्टं सत्यं यस्य स इष्टसत्यः प्रियसत्य इति संप्रतीयसे सम्यक्ख्यायसे । `प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः` इत्यमरः| नग्नजितो नग्नजिन्नाम्नो राज्ञः । सुतया सत्यभामया सत्यापराख्यया प्रीतिमानन्दमनुभवसि| सत्यायोगादिष्टसत्यो न तु सत्ययोगादिति भावः । अत्र हरेः सत्यसंबन्धेऽपि तदसंबन्धोक्तेः संबन्धेऽसंबन्धरूपातिशयोक्तिः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
न्प्र जा स्त्व नृ ते
टु रै न्द्र जा लि कः
प्री ति नु सि ग्न जि तः
सु ये ष्ट त्य ति म्प्र ती से
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.