Loading data... On slow networks this could take a few minutes.
100%

धृतवान्न चक्रमरिचक्र-
भयचकितमाहवे निजम् ।
चक्रधर इति रथाङ्गमदः
सततं बिभर्षि भुवनेषु रूढये ॥

मल्लिनाथः धृतवानिति ॥ आहवे युद्धे अरिचक्रादरिसैन्याद्भयेन चकितं संभ्रमं `चकितं भयसंभ्रमः` इति सज्जनः । निजमात्मीयं चक्रं सैन्यं न धृतवान्नावलम्बितवान्| न रक्षितवानित्यर्थः। किंतु चक्रधर इति भुवनेषु रूढये प्रसिद्धये । अदः इदं रथाङ्गं चक्रापराख्यं सततं बिभर्षि दधासि । वृथाभारमिति भावः । `चक्र सैन्यरथाङ्गयोः` इति हेमसज्जनौ । अयोविकारधरः चक्रधरो भवान्नारिभीतिचक्रधारकत्वादित्यर्थः । अत्र हरौ भगवति चक्रधारणसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
धृ वा न्न क्र रि क्र
कि मा वे नि जम्
क्र ति था ङ्ग दः
तं बि र्षि भु ने षु रू ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.