मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः । सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ॥

मल्लिनाथः मुचुकुन्देति ॥ हे अबल बलहीन, कुतः मुचुकुन्दो नाम कश्चिद्राजा । यस्यासुरविजयश्रान्त्या निद्रायमाणस्य देवतावरप्रसादान्निद्राविघातकारी दृष्टिपाताद्भस्मीभवतीति तस्य तल्पं शय्या तदेव शरणं रक्षकं यस्य तस्य । कालयवनविद्रावितस्येति भावः । तथा मगधपतिना जरासंधेन शातितौजसः अष्टादशकृत्वो भग्नवीर्यस्य तव रोहिणीतनयस्य बलापरनाम्रो बलभद्रस्य साहचर्यतः साहचर्यात् बलत्वं सिद्धम् । न तु स्वबलसंपत्त्येत्यर्थः। अहो इति कारणं विना कार्योदयादाश्चर्यम्| अत एव विभावनालंकारः । पुण्यैर्यशो लभ्यत इति भावः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.