मल्लिनाथः
असुर इति ॥ मधुरिति कोऽप्यसुरस्त्वया न्यवधि हतः । `आत्मनेपदेष्वन्यतरस्याम्` (अष्टाध्यायी २.४.४४ ) इति हन्तेर्लुङि विकल्पाद्वधादेशः । इति कथं प्रतीयते विश्वस्यते । न कथंचिदित्यर्थः । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु` इत्यमरः । किंतु दण्डेन दलिता ध्वस्ता सरघा मधुमक्षिका येनेदृशस्त्वम् । `सरघा मधुमक्षिका` इत्यमरः । अत एव मधु क्षौद्रं सूदयन्पीडयन् मधुसूदन इति प्रथसे प्रथितोऽसि | मक्षिकासूदनमेव मधुसूदनसंज्ञाप्रवृत्तिनिमित्तं, न तु मधुनानो दैत्यस्य सूदनमित्यर्थः । अत्र मधुसूदनसंज्ञायां प्रसिद्धार्थनिषेधस्योत्तरवाक्यस्यान्यथा व्युत्पादनहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.