मल्लिनाथः
प्रतिपत्तुमिति ॥ हे अङ्ग, तव नृपयोग्यं राजार्हमर्हणं पूजनं प्रतिपत्तुं स्वीकर्तुं न च घटते न युज्यते । नन्वहमपि राजैव कथमर्हणं मे न युक्तं तत्राहकृष्णेति । हे कृष्ण, अहं क इति कलय । अहं राजा न वेति निजस्वरूपमालोचयेत्यर्थः| अनालोचनेऽनर्थमाह-अनात्मवेदिता अनात्मज्ञत्वं आपदां पदं स्थानं स्फुटं खलु । सत्यमित्यर्थः । आत्मा च कंसकिङ्करस्तस्य पशुपालकत्वादिति भावः । अतो निजस्वरूपं चिन्त्यमिति हेतुमद्भावात्काव्यलिङ्गम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.