अवनीभृतां त्वमपहाय
गणमतिजडः समुन्नतम् ।
नीचि नियतमिह यच्चपलो
निरतः स्फुटं भवसि निम्नगासुतः ॥

मल्लिनाथः अवनीति ॥ अतिजडोऽतिमूढोऽतिशीतश्च चपलोऽस्थिरः सत्वरश्च त्वं समुन्नतमुन्नतमवनीभृतां राज्ञां, भूधराणां च गणमपहाय । न्यञ्चतीति न्यङ् तस्मिन्नीचि नीचवृत्ते, निम्ने च । `अचः` (६४।१३८) इत्यकारलोपे `चौ` (६॥३॥१३८) इति दीर्घः । इहास्सिन्कृष्णे यद्यस्मान्नियतं नित्यं निरतोऽनुरक्तः प्रवणश्च स इति शेषः । निम्नं नीचं गच्छतीति निम्नगा नदी । डो `अन्यत्रापि दृश्यते` (वा०) इति डप्रत्ययः । तस्याः सुतो भवसि स्फुटं व्यक्तम् । नीचनिरतत्वादिधर्मसंक्रमादिति भावः । उक्तं च-`न पित्र्यमनुवर्तन्ते मातृकं द्विपदाः` इति । अत्र चतुर्थपादार्थस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
नी भृ तां त्व हा
ति डः मु न्न तम्
नी चि नि मि च्च लो
नि तः स्फु टं सि नि म्न गा सु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.