Loading data... On slow networks this could take a few minutes.
100%

स्वयमेव शन्तनुतनूज
यमपि गणमर्घ्यमभ्यधाः ।
तत्र मुररिपुरयं कतमो
यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥

मल्लिनाथः स्वयमेवेति ॥ हे शन्तनुतनूज भीष्म । स्वयमेवेत्यर्थः । यमपि गणं वर्गमर्घ्यमर्घार्हं पूज्यम् । `दण्डादिभ्यो यत्` (अष्टाध्यायी ५.१.६६ ) इति यत्प्रत्ययः । अभ्यधा अवोचः । `स्नातकं गुरुम्` (१४५५) इत्यादिश्लोक इति भावः । धाधातोर्लङि `गातिस्था-`(अष्टाध्यायी २.४.७७ ) इत्यादिना सिचो लुक् । तत्र स्नातकादिगणे अयं मुररिपुः कतमः । न कोऽपीत्यर्थः । मास्तु अस्तु वा, अस्मदुपालम्भे को हेतुरत आह—यमिति । यं मुररिपुमनिन्द्यबन्दिवत्प्रगल्भवैतालिकवदित्युपमा । अभिष्टुषे मिथ्या स्तौषि । त्वमिति शेषः । अतस्त्वमेवोपालभ्य इति भावः । `उपसर्गात्सुनोति ` (अष्टाध्यायी ८.३.६५ ) इत्यादिना षत्वम्
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
स्व मे न्त नु नू
पि र्घ्य भ्य धाः
त्र मु रि पु यं मो
नि न्द्य न्दि भि ष्टु षे वृ था
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.