Loading data... On slow networks this could take a few minutes.
100%

अथवा न धर्ममसुबोधसमयमवयात बालिशाः । खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥

मल्लिनाथः अथेत्यादि ॥ अथवा बालिशा मूर्खाः । यूयमिति शेषः । सुबोधो न भवतीत्यसुबोधो दुर्बोधः समय आचारो यस्य तं धर्मं नावयात न जानीत । अवपूर्वाद्याधातोर्लोटः `तस्थस्थ-` (अष्टाध्यायी ३.४.१०१ ) इत्यादिना थस्य तादेशः । किंतु वृथा निष्फलं पलितं यस्य स वृथापलितः । वृथापरिणत इत्यर्थः । `पलितं जरसा शौक्लयम्` इत्यमरः । वृथात्वे हेतुः-हतबुद्धिर्नष्टमतिरयं सरित्सुतो भीष्मोऽपि काममप्रणिहितोऽनवहितः प्रमत्तः । बालाः पार्था न जानन्तु हन्त, वृद्धोऽपि न जानातीति चित्रमित्यर्थः । अत एव सत्यपि कारणे कार्यानुदयाद्विशेषोक्तिरलंकारः| तथा बालिशत्वधर्मदुर्बोधत्वयोर्विशेषणगत्या धर्मज्ञानाहेतुत्वात्काव्यलिङ्गं चेत्यनयोः सापेक्षत्वात्संकरः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.