अथतत्र पाण्डुतनयेन
सदसि विहितं मुरद्विषः ।
मानमसहत न चेदिपतिः
परवृद्धिमत्सरि मनो हि मानिनाम् ॥

मल्लिनाथः अथेति ॥ अथ हरिपूजानन्तरं चेदिपतिः शिशुपालः तत्र सदसि सभायां पाण्डुसुतेन युधिष्ठिरेण विहितं मुरद्विषो हरेर्मानं पूजां नासहत । ईर्ष्यां चकारेत्यर्थः । `परोत्कर्षाक्षमेर्ष्या स्याद्दौर्जन्यान्मन्युतोऽपि च` इति लक्षणात् । तथा हि—मानिनामहंकारिणां मनः परवृद्धौ मत्सरि मत्सरवत् । परशुभद्वेषि खल्वित्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । अस्मिन्सर्गे उद्गता वृत्तम् । `सँजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता । त्र्यङ्घ्रिगतभनजला गयुताः सजसा जगौ चरममेकतः पठेत् ॥` इति लक्षणात्
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
त्र पा ण्डु ये
सि वि हि तं मु द्वि षः
मा चे दि तिः
वृ द्धि त्स रि नो हि मा नि नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.