Loading data... On slow networks this could take a few minutes.
100%

यदि वार्चनीयतम एष
किमपि भवतां पृथासुताः ।
शौरिरवनिपतिभिर्निखिलै-
रवमाननार्थमिह किं निमन्त्रितैः ॥

मल्लिनाथः यदि वेति ॥ हे पृथासुताः कौन्तेयाः, एष शौरिर्वा शौरिरेवेत्यर्थः। `वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये` इति विश्वः । किमपि कथमपि भवतां अर्चनीयतमो यदि पूज्यश्चेत् । तर्हीति शेषः । अवमाननं तिरस्कारः तस्मै तदर्थमेव । अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या । क्रियाविशेषणम् । निमन्त्रितैराहूतैः निखिलैरवनिपतिभिरिह किम् । कोऽर्थः साध्य इत्यर्थः । अत एव साधनक्रियापेक्षया करणत्वे तृतीया । अत्र गम्यमानक्रियापेक्षयापि कारकवृत्तिरिति न्यायो घोत्यते । अत्र सकलराजनिषेधस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
दि वा र्च नी
कि पि तां पृ था सु ताः
शौ रि नि ति भि र्नि खि लै
मा ना र्थ मि किं नि न्त्रि तैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.