तव धर्मराज इति नाम
कथमिदमपष्ठु पठ्यते ।
भौमदिनमभिदधत्यथवा
भृशमप्रशस्तमपि मङ्गलं जनाः ॥

मल्लिनाथः तवेति ॥ हे पार्थ, तवेदं धर्मराज इति नाम कथमपष्टु असत्यमेव पठ्यते ।जनैः इति शेषः । `अपदुःसुषु स्थः` (उ०२५) इत्यौणादिकः कुप्रत्ययः । `अम्बाम्बगोभूमि-` (अष्टाध्यायी ८.३.९७ ) इत्यादिना षत्वम् । यद्वा युक्तमेवैतदित्याह-अथवा जनाः भृशमप्रशस्तमपि भौमदिनमङ्गारकवारं मङ्गलमभिदधति व्यपदिशन्ति तद्वदिदमपीत्यर्थः ।लोकैरप्रशस्तं प्रशस्तशब्देन विरुद्धार्थेनापि व्यपदिश्यते तदुच्चारेण दोषः यथा धूलिवृद्धिशब्देन तद्वदधर्मराजस्यापि तव धर्मराजव्यपदेश इति भावः । अत्र धर्मराजभौमदिनयोर्निरपेक्षवाक्यद्वये प्रतिबिम्बकरणादृष्टान्तालंकारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
र्म रा ति ना
मि ष्ठु ठ्य ते
भौ दि भि त्य वा
भृ प्र स्त पि ङ्ग लं नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.