स्वापतेयमधिगम्य धर्मतः
पर्यपालयमवीवृधं च यत् ।
तीर्थगामी करवै विधानत-
स्तज्जुषस्व जुहवानि चानले ॥

मल्लिनाथः स्वापतेयमिति ॥ यत्स्वपतौ स्वामिनि साधु तत् स्वापतेयं वित्तम्। `पथ्यतिथिवसतिस्वपतेर्ढञ्` (अष्टाध्यायी १.४.१०४ ) `द्रव्यं वित्तं स्वापतेयम्` इत्यमरः । धर्मतः क्षत्रियस्य विजितमिति शास्त्रोक्तप्रकारादित्यर्थः । अधिगम्य लब्ध्वा यत्नेन पर्यपालयं पालितवान्, अवीवृधं वृद्धिं च प्रापितवान् । तत्तीर्थगामि विप्राधीनं करवै करिष्यामि। विधानतः पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत्` (याज्ञ० आ० ३१७) इति स्मरणात् । तच्च पात्रं त्वमेवेत्याह-तत्सर्वं जुषस्व सेवस्व । सदैव भुङ्क्ष्वेत्यर्थः । `जुषी प्रीतिसेवनयोः` इति धातोर्लोट् । अनले जुहवानि च जुहुयाम् । तन्मुखेनापि तवैव भोक्तृत्वादिति भावः । जुहोतेः संप्रश्नलोटि मेर्निरादेशः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्वा ते धि म्य र्म तः
र्य पा वी वृ धं यत्
ती र्थ गा मी वै वि धा
स्त ज्जु स्व जु वा नि चा ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.