वीतविघ्नमनघेन भाविता
सन्निधेस्तव मखेन मेऽधुना ।
को विहन्तुमलमास्थितोदये
वासरश्रियमशीतदीधितौ ॥

मल्लिनाथः वीतविघ्नमिति ॥ अधुना तव संनिधेर्हेतोर्मे मखेन ऋतुना कर्त्रावीतविघ्नमविघ्नं अनघेन निर्दोषेण भाविता । भविष्यत इत्यर्थः । भावे लट् `स्यसिच्सीयुट्` (अष्टाध्यायी ६.४.६२ ) इत्यादिना लुटि चिण्वद्भावाद्वृद्धिः। तथा हि—अशीतदीधितावुष्णांशावास्थितोदये प्राप्तोदये सति को वासरश्रियं दिनशोभा विहन्तुमलं शक्तः। न कोऽपीत्यर्थः । अत्र हरिमरीचिमालिनोर्वाक्यभेदाद्बिम्बप्रतिबिम्बतया संनिहितद्योतितया समानधर्मतया निर्दोषो दृष्टान्तालंकारः । `यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते । सामान्यधर्मवाक्योक्तेः स दृष्टान्तो निगद्यते ॥` इति लक्षणात्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
वी वि घ्न घे भा वि ता
न्नि धे स्त खे मे ऽधु ना
को वि न्तु मा स्थि तो ये
वा श्रि शी दी धि तौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.