पूर्वमङ्ग जुहुधि त्वमेव वा
स्नातवत्यवभृथे ततस्त्वयि ।
सोमपायिनि भविष्यते मया
वाञ्छितोत्तमवितानयाजिना ॥

मल्लिनाथः पूर्वमिति ॥ वेति पक्षान्तरे । अथवेत्यर्थः । अङ्ग हे कृष्ण, `अथ संबोधनार्थकाः । स्युः प्याटपाडङ्ग हे है भोः` इत्यमरः । पूर्वं त्वमेव जुहुधि । यजस्वेत्यर्थः । `हुझल्भ्यो हेर्धिः` (अष्टाध्यायी ६.४.१०१ ) इति हेर्धिरादेशः । सोमपायिनि त्वयि अवभृथे यज्ञे । `दीक्षान्तोऽवभृथो यज्ञे` इत्यमरः । स्नातवति सति ततोऽनन्तरं मया वाञ्छित उत्तमो वितानः क्रतुः राजसूयाख्यः । `ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके` इत्यमरः । तेन यथा याजिना भविष्यते । भावे लुट् । त्वयि इष्टवति पश्चादहं यक्ष्य इत्यर्थः । अत्र श्लोकद्वयेन हरेर्यागासंबन्धे तत्संबन्धोक्तेरतिशयोक्तिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
पू र्व ङ्ग जु हु धि त्व मे वा
स्ना त्य भृ थे स्त्व यि
सो पा यि नि वि ष्य ते या
वा ञ्छि तो त्त वि ता या जि ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.