Loading data... On slow networks this could take a few minutes.
100%

नात्तगन्धमवधूय शत्रुभि-
श्छायया च शमितामरश्रमम् ।
योऽभिमानमिव वृत्रविद्विषः
पारिजातमुदमूलयद्दिवः ॥

मल्लिनाथः नात्तगन्धमिति ॥ किंचेति चार्थः । यो हरिः शत्रुभिरवधूयाभिभूय नात्तगन्धमनाघ्रातसौरभमनभिभूतं च । `आत्तगन्धोऽभिभूतः स्यात्` इत्यमरः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। छाययानातपेन, पालनेन च `छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कर्षयोः कान्तिसच्छोभापतिषु स्त्रियाम्` इति विश्वः । शमितामरश्रमं निवारितसुरखेदं पारिजातं वृत्रविद्विषः शक्रस्याभिमानमहंकारमिव दिवः स्वर्गादुदमूलयदुन्मूलितवानिति पारिजातहरणोक्तिः । श्लेषसविशेषणेयमुपमेति केचित् । श्लेषवच्चान्ये
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ना त्त न्ध धू त्रु भि
श्छा या मि ता श्र मम्
यो ऽभि मा मि वृ त्र वि द्वि षः
पा रि जा मु मू द्दि वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.