तात नोदधिविलोडनं प्रति
त्वद्विनाथ वयमुत्सहामहे ।
यः सुरैरिति सुरौघवल्लभो
बल्लवैश्च जगदे जगत्पतिः ॥

मल्लिनाथः तातेति ॥ सुरौघवल्लभः सुरगणप्रियः । जगत्पतिर्यो हरिः सुरैर्देवैः बल्लवैर्गोपालैश्च हे तात जनक, नेति छेदे, उदधिविलोडनं समुद्रमथनं प्रति, नो इति छेदे, दधिविलोडनं दधिमन्थनं च प्रति त्वद्विना । त्वां विहायेत्यर्थः । `पृथग्विना-` (अष्टाध्यायी २.३.३२ ) इत्यादिना विकल्पात्पञ्चमी । अथ वयं न नो वोत्सहामहे न क्षमामहे इति जगदे गदितम् । अत्र हरिवर्णनाङ्गत्वेन सुराणां बल्लवानां च प्रकृतानामेव नोदधिशब्दमूलाभेदाध्यवसायलब्धदध्युदधिविलोडनक्षमत्वकर्मसाम्यागम्यौपम्यत्वात्तुल्ययोगिताभेदः । तेन च हरेर्दधिमन्थनकलावदुदधिमन्थनमपीति वस्तु व्यज्यत इत्यलंकारेण वस्तुध्वनिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ता नो धि वि लो नं प्र ति
त्व द्वि ना मु त्स हा हे
यः सु रै रि ति सु रौ ल्ल भो
ल्ल वै श्च दे त्प तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.