Loading data... On slow networks this could take a few minutes.
100%

निष्प्रहन्तुममरेशविद्विषा-
मर्थितः स्वयमथ स्वयंभुवा ।
सम्प्रति श्रयति सूनुतामयं
कश्यपस्य वसुदेवरूपिणः ॥

मल्लिनाथः निष्प्रहन्तुमिति ॥ अथ रामावतारानन्तरं अयं हरिः अमरेशविद्विषां निष्पहन्तुम् । चैद्यादीनिन्द्रशत्रून् हन्तुमित्यर्थः। `जासिनिप्रहण-` (अष्टाध्यायी २.३.५६ ) इत्यादिना कर्मणि षष्ठी । स्वयंभुवा ब्रह्मणा स्वयमात्मनैवार्थितः प्रार्थितः सन् संप्रतीदानी वसुदेवरूपिणो वसुदेवमूर्तिधरस्य कश्यपस्य पुत्रतां श्रयति व्रजति कृष्णरूपेणेति&#३२; भावः । अत्र स्वयंभूप्रार्थनाया विशेषणगत्या वसुदेवपुत्रताप्राप्तिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
नि ष्प्र न्तु रे वि द्वि षा
र्थि तः स्व स्व यं भु वा
म्प्र ति श्र ति सू नु ता यं
श्य स्य सु दे रू पि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.