एष दाशरथिभूयमेत्य च
ध्वंसितोद्धतदशाननामपि ।
राक्षसीमकृत रक्षितप्रज-
स्तेजसाधिकविभीषणां पुरीम् ॥

मल्लिनाथः एष इति ॥ किंचेति चार्थः । रक्षितप्रजः एष हरिदशरथस्यापत्यं पुमान्दाशरथी रामः । `अत इञ्` (४|१|९५) तस्य भावः दाशरथिभूयं रामत्वम् । `भुवो भावे` (अष्टाध्यायी ३.१.१०७ ) इति क्यप् । एत्य प्राप्य ध्वंसितो हत उद्धतो दृप्तो दशाननो रावणो यस्यां तामपि राक्षसी रक्षःसंबन्धिनी पुरी लङ्कां तेजसा स्ववीर्येणाधिकविभीषणामत्यन्तभीषणामकृतेति विरोधः । भयहेतोरुद्धतस्य रावणस्य ध्वंसनादधिको महान्विभीषणो रावणानुजो यस्यां तामित्यविरोधः । अत एव विरोधाभासोऽलंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
दा थि भू मे त्य
ध्वं सि तो द्ध शा ना पि
रा क्ष सी कृ क्षि प्र
स्ते सा धि वि भी णां पु रीम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.