रेणुकातनयतामुपागतः
शातितप्रचुरपत्रसंहति ।
लूनभूरिभुजशाखमुज्झित-
च्छायमर्जुनवनं व्यधादयम् ॥

मल्लिनाथः रेणुकेति ॥ अयं हरिः रेणुकातनयतां परशुरामत्वमुपागतः सन् । अर्जुनः कार्तवीर्यार्जुनः । `अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः` इत्यनेकार्थत्वेऽपि रेणुकेयविरोधित्वान्निश्चयः । तदुक्तं हरिणा-`संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥` इति । स एव वनं तत् । शातिता छिन्ना प्रचुरा प्रभूता पत्रसंहतिर्वाहनसमूहः पर्णसंघातश्च यस्य तत् । `पत्रं स्याद्वाहने पर्णे` इति विश्वः । लूनाश्छिन्ना भूरयः प्रचुरा भुजा एव शाखा यस्य तत् । उज्झिता छाया कान्तिरनातपश्च यस्य तत्तथा व्यधाद्विहितवान् । दधातेर्लुङि `गातिस्था-` (२|४|७७) इत्यादिना सिचो लुक् । `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः` इत्यमरः । अत्र समस्तवस्तुविषयं सावयवं रूपकं व्यक्तं तच्च छायेति पत्रेति च श्लेषप्रतिभोत्थापिताभेदातिशयोक्त्यानुप्राणितमिति संकरः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
रे णु का ता मु पा तः
शा ति प्र चु त्र सं ति
लू भू रि भु शा मु ज्झि
च्छा र्जु नं व्य धा यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.