Loading data... On slow networks this could take a few minutes.
100%

सम्प्रदायविगमादुपेयुषी-
रेव नाशमविनाशिविग्रहः ।
स्मर्तुमप्रतिहतस्मृतिः श्रुती-
र्दत्त इत्यभवदत्रिगोत्रजः ॥

मल्लिनाथः संप्रदायेति ॥ अविनाशिविग्रहोऽनपायस्वरूपः अत एव अप्रतिहता स्मृतिः स्मरणशक्तिर्यस्य स एष हरिः संप्रदाय उपदेशपरम्परा तस्य विगमादपायान्नाश कालदोषाध्ययनविच्छेदमुपेयुषीः प्राप्ताः । `उगितश्च` (अष्टाध्यायी ४.१.६ ) इति ङीप् । श्रुतीर्वेदान् । `श्रुतिः स्त्री वेद आम्नायः` इत्यमरः । स्मर्तुम् । श्रुतिसंप्रदायं प्रवर्तयितुमित्यर्थः । दत्त इति विख्यात इति शेषः । अत्रिगोत्रे जातोऽत्रिगोत्रजोऽभवत् ।&#३२; दत्तात्रेयोऽभूदित्यर्थः । अत्रानपायित्वस्मृत्यप्रतिघातयोर्विशेषणगत्या श्रुतिस्मृतिहेतुत्वोक्त्या काव्यलिङ्गम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
म्प्र दा वि मा दु पे यु षी
रे ना वि ना शि वि ग्र हः
स्म र्तु प्र ति स्मृ तिः श्रु ती
र्द त्त त्य त्रि गो त्र जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.