सम्भृतोपकरणेन निर्मलां
कर्तुमिष्टिमभिवाञ्छता मया ।
त्वं समीरण इव प्रतीक्षितः
कर्षकेण वलजान्पुपूषता ॥

मल्लिनाथः संभृतेति ॥ निर्मलां निर्दोषामिष्टिं यागम् । यजेः स्त्रियां क्तिन् `वचिस्वपि` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । कर्तुमभिवाञ्छता अत एव संभृतोपकरणेन संपादितसाधनेन मया त्वं वलजान् धान्यराशीन् । `वलजो धान्यराशिः स्यात्` इति वैजयन्ती । पुपूषता पवितुं शोधितुं निर्बुसीकर्तुमिच्छता । पुनातेः सन्नन्ताल्लटः शत्रादेशः `सनि ग्रहगुहोश्च` (७२।१२) इति चकारादिटः प्रतिषेधः । कर्षकेण कृषीवलेन समीरणो वायुरिव प्रतीक्षितः । प्रवाते शूर्पादिना धान्यस्योत्क्षेपः पवनम् । तद्वातं विनेव त्वां विना समाहृतसंभारेणापि मया यागो दुष्कर इति भावः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
म्भृ तो णे नि र्म लां
र्तु मि ष्टि भि वा ञ्छ ता या
त्वं मी प्र ती क्षि तः
र्ष के जा न्पु पू ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.