दिव्यकेसरिवपुः सुरद्विषो
नैव लब्धशममायुधैरपि ।
दुर्निवाररणकण्डु कोमलै-
र्वक्ष एष निरदारयन्नखैः ॥

मल्लिनाथः दिव्येति ॥ दिव्यकेसरिवपुर्दिव्यसिंहमूर्तिः । एष हरिः आयुधैर्वज्रादिभिरपि नैव लब्धशममप्राप्तशान्ति । दुर्निवारा दुर्जया रणकण्डूर्यस्य तत् । रणव्यसनीत्यर्थः । `गोस्त्रियोरुपसर्जनस्य` (अष्टाध्यायी १.२.४८ ) इति ह्रस्वः । सुरद्विषो हिरण्यकशिपोर्वक्षः कोमलैर्नखैः निरदारयदभिनत् । वज्राद्यभेद्यस्य कोमलनखविदार्यत्वं भगवत्प्रभावादिति विरोधाभासोऽलंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
दि व्य के रि पुः सु द्वि षो
नै ब्ध मा यु धै पि
दु र्नि वा ण्डु को लै
र्व क्ष नि दा न्न खैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.