स्कन्धधूननविसारिकेसर-
क्षिप्तसागरमहाप्लवामयम् ।
उद्धृतामिव मुहूर्तमैक्षत
स्थूलनासिकवपुर्वसुन्धराम् ॥

मल्लिनाथः स्कन्धेति ॥ स्थूलनासिकवपुर्वराहमूर्तिरयं हरिः स्कन्धस्य कंधरायाः धूननेन कम्पनेन विसारिभिरुत्सर्पिभिः केसरैः सटाभिः क्षितोऽवकीर्णः सागरस्य महाप्लवो महापूरः यस्यास्ताम् । जलापसारेण प्रकाशितामित्यर्थः । वसुंधरां भुवं मुहूर्तं क्षणमात्रम् । `मुहूर्तमल्पकालेऽपि` इति शब्दार्णवे । उद्धृतामनावृतत्वात्सागरादुत्क्षिप्तामिव ऐक्षत प्रेक्षितवानित्युत्प्रेक्षा । ईक्षतेर्लङि `आडजादीनाम्` (अष्टाध्यायी ६.४.७२ ) `आटश्च` (अष्टाध्यायी ६.१.९० ) इति वृद्धिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्क न्ध धू वि सा रि के
क्षि प्त सा हा प्ल वा यम्
द्धृ ता मि मु हू र्त मै क्ष
स्थू ना सि पु र्व सु न्ध राम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.