Loading data... On slow networks this could take a few minutes.
100%

वारिधेरिव कराग्रवीचिभि-
र्दिङ्मतङ्गजमुखान्यभिघ्नतः ।
यस्य चारुनखशुक्तयः स्फुर-
न्मौक्तिकप्रकरगर्भतां दधुः ॥

मल्लिनाथः (युग्मकम् ।) वारिधेरिति ॥ कराग्राणि वीचय इवेत्युपमितसमासः । वारिधेरिवेति लिङ्गात् । ताभिः कराग्रवीचिभिः । दिगन्तवितताभिरिति भावः । अत एव दिङ्मतङ्गजानां मुखान्यभिनतो रोषातिरेकात्प्रहरतो यस्य सिंहमूर्तेर्हरेर्वारिधेरिव चारुनखाः शुक्तय इव । पूर्ववदुपमितसमासः । स्फुरन्मौक्तिकप्रकरो दिग्गजकुम्भसंभूतमुक्तावातो गर्भेऽन्तर्गतो यासां तासां भावस्तत्ता तां दधुः । एष निरदारयदिति पूर्वेणान्वयः । एतेन नरहरिक्रोधस्य सामर्थ्यं महासुरेऽपि न पर्याप्तमिति व्यज्यत इति वस्तुना वस्तुध्वनिः । उपमालंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
वा रि धे रि रा ग्र वी चि भि
र्दि ङ्म ङ्ग मु खा न्य भि घ्न तः
स्य चा रु शु क्त यः स्फु
न्मौ क्ति प्र र्भ तां धुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.