Loading data... On slow networks this could take a few minutes.
100%

सत्यवृत्तमपि मायिनं जग-
द्वृद्धमप्युचितनिद्रमर्भकम् ।
जन्म बिभ्रतमजं नवं बुधा
यं पुराणपुरुषं प्रचक्षते ॥

मल्लिनाथः सत्येति ॥ यं हरि सत्यवृत्तमकपटचरितमपि । मायिनं मायाविनं कपटवृत्तमिति विरोधः । माया नाम शक्तिः तद्वन्तमित्यविरोधः । व्रीह्यादित्वादिनिप्रत्ययः । जगद्वृद्धं सर्वलोकपितामहत्वात्स्थविरमपि । `प्रवयाः स्थविरो वृद्धः` इत्यमरः । उचितनिद्रं परिचितयोगनिद्रमर्भकं डिम्भम् । `वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि` इत्यागमवचनादिति भावः । `पोतः पाकोऽर्भको डिम्भः` इत्यमरः । न जायत इत्यजो जन्मरहितः । `अन्येष्वपि दृश्यते` (३।२। १०१) इति जनेर्डप्रत्ययः । तमपि जन्म बिभ्रतम् । कामवशात्कृष्णादिजन्मभाजमित्यर्थः । नवं रमणीयत्वादभिनवं तथापि पुराणं प्राचीनमनादिं च पुरुषं प्रचक्षते । बुधा इति वाक्यं सर्वत्र संबध्यते । सर्वेऽपि विरोधा हरेरचिन्त्यमहिमत्वेनाभास्या इति विरोधाभासचतुष्टयसंसृष्टिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्य वृ त्त पि मा यि नं
द्वृ द्ध प्यु चि नि द्र र्भ कम्
न्म बि भ्र जं वं बु धा
यं पु रा पु रु षं प्र क्ष ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.